Shakti-interpretation volume of “Dharmayan”
पाटलिपुत्रस्थितस्य महावीर मन्दिरस्य मासिकपत्रस्य धर्मायणस्य ‘शक्ति-विमर्श विशेषांकःʼ ई-पत्रिकारूपेण लोकार्पितः
धर्मायण, अंक संख्या 106, (वैशाख 2078 वि.सं., 28 अप्रैल से 26 मई, 2021ई.), शक्ति-विमर्श विशेषांकः
अयं वैशाखमासः जगज्जनन्याः जानक्याः आविर्भाव-मासः स्वीकृतः। वैशाखशुक्लनवम्यां एतस्याः श्रीरामशक्तेः जन्मोत्सवः भवति। अयमङ्कः श्रीरामशक्तिं मातरं सीतां समर्पितः शक्ति-विमर्श-विशेषांकरूपेण प्रस्तुतः। वर्तमाने कोविड-महामरकस्य द्वितीयं तरङ्गमनुभूय तत्कालं अस्याः पत्रिकायाः ई-संस्करणं प्रकाश्यते। स्थितौ सामान्यभूतायां सर्वेषामङ्कानां प्रकाशनमपि भविष्यति।
तत्कालमियं पत्रिका https://mahavirmandirpatna.org/dharmayan/dharmayan-vol-106-shakti-vimarsha-ank/ इति जालपटले निःशुल्कं पठितुम् अवतारितां च कृत्वा वितरितामपि कर्तुं शक्यते। अस्यां राष्ट्रिय-स्तरीयपत्रिकायां भारतवर्षस्य विभिन्नप्रान्तीयानां लेखकानां शक्तिविमर्शमवलम्ब्य शोधालेखाः प्रकाशिताः सन्ति।
अस्याः पत्रिकायाः प्रधानः सम्पादकः आचार्य किशोर कुणाल महोदयः सम्पादकश्च पं. भवनाथ झा महोदयः।
दैनिक ब्रह्मास्त्र, उज्जैन, दिनांक 01 मई, 2021 ई.
केन्द्रीय विषयाः
अस्याङ्कस्य केन्द्रीयविषयाः वर्तन्ते यत् शक्त्युपासनायां आसेतुहिमाचलस्य भारतवर्षस्य परम्परायां दर्शने च ऐक्यं वर्तते यत् अखण्डभारतस्य सनातनीं परम्परां संकेतयति। अस्मिन्नङ्के मातुः जानक्याः श्रीरामस्य च समन्वये श्री महेश प्रसादेन श्री राजीवनन्दन मिश्रेण च आलेखौ लिखितौ। स्वनामधन्यस्य आचार्य सीताराम चतुर्वेदी महोदयस्य च अद्भुत-रामायणे उपदिष्टा श्रीराम कथा अत्र प्रकाशिता श्रीजानक्याः विशिष्टोद्भवं नितरां सूचयति। अथ च, जनकपुरस्य परिक्रमायां श्री रविसंगम सहोदयस्य आलेखः स्थानीयां परम्परां विवृणोति।
दक्षिण भारते 18तमे शताब्दे आविर्भूतस्य वेंकटकवेः कृतौ श्रीसीता-राधा-पार्वतीत्यादीनां मातृशक्तीनां वर्णनमत्र श्रीरवि ओझा महोदयस्य आलेखे स्फुटं भवति। दक्षिण-भारतस्यैव वीरशैवपरम्परायां श्रीरेणुकाचार्यप्रतिपादितं शक्तिविशिष्टाद्वैतमवलमब्य शिवशक्त्योः एकत्वं बंगलूरुनिवासिना श्रीजगन्नाथ करंजे महोदयेन चात्र प्रतिपादितम्।
धर्मायण अंक संख्या 106, (वैशाख 2078 वि.सं., 28 अप्रैल से 26 मई, 2021ई.), शक्ति-विमर्श विशेषांक
- तन्त्रोपनिषदों में शक्ति की अवधारणा– सम्पादकीय आलेख
- अद्भुत रामायण में मातृशक्ति सीताजी का अद्भुत स्वरुप– श्री महेश प्रसाद पाठक
- जनकभूमि की परिक्रमा- रवि संगम
- वॆङ्कट कवि की कृति ‘सुन्दरेश्वरजाये– श्री रवि ओझा
- शिव में समाविष्ट शक्ति- श्री जगन्नाथ करंजे
- भगवती-तत्त्व विमर्श–डा. सुदर्शन श्रीनिवास शाण्डिल्य
- मातृशक्ति का सम्पूर्ण रूप देवी सीता में समाहित-श्री राजीव नंदन मिश्र ‘नन्हेंʼ
- दुर्गा-सप्तशती में शक्ति का दार्शनिक स्वरूप–डा. लक्ष्मीकान्त विमल
- श्रीराम का पट्टाभिषेक (उत्तर भारतीय कर्मकाण्ड की दृष्टि से विवेचन) –पं. मार्कण्डेय शारदेय*
- महाशक्ति श्री श्री माँ- महामहोपाध्याय गोपीनाथ कविराज
- शक्तिपूजा : मातृशक्ति का भावात्मक आधार– कुमारी संगीता
- भारतीय साहित्य में शक्ति की अभिव्यंजना– डा० भुवनेश्वर प्रसाद गुरुमैता
- अद्भुत रामायण की रामकथा- आचार्य सीताराम चतुर्वेदी
- श्रीपरशुरामकथामृत- गिरिधरदास
- परशुराम के द्वारा सहस्रार्जुन का वध- लल्लू लाल कृत ‘प्रेम सागरʼ से उद्धृत
- पुस्तक समीक्षा पूर्व-पीठिका, सुलभ अग्निहोत्री- समीक्षक– श्री आनन्द कुमार
- महावीर मन्दिर समाचार, अप्रैल, 2021ई
- जल-सूक्त, ऋग्वेद से
- व्रत-पर्व, वैशाख, 2078 संवत्, 28 अप्रैल-26 मई, 2021ई
- रामावत संगत से जुड़ें
पाटलिपुत्रस्थेन डा. सुदर्शन शाण्डिल्यमहोदयेन च भगवती-तत्त्व-विमर्शः अत्र कृतः। दिल्लीप्रदेशे श्रीशंकरशिक्षायतनस्य दार्शनिकेन डा. लक्ष्मीकान्तविमलेन दुर्गासप्तशत्यां प्रथमाध्याये ब्रह्म-कृतायां शक्तिस्तुतौ शक्तेः दार्शनिकः स्वरूपः अत्र स्फुटीकृतः।
धर्मायणस्य विगते अङ्के डा. ममता मिश्र दाश महोदयया श्रीरामपट्टाभिषेकस्य पद्धतेः प्रथमवारं मातृकायाः सम्पादनं कृतम्। अस्याः दाक्षिणात्यविधेः औदीच्यपरम्परयाः सह तुलनात्मके अध्ययने पं. श्री मार्कण्डेय शारदेय महोदयेन प्रदर्शितं यत् वस्तुतः सनातन परम्परायां दाक्षिणात्यौदीच्ययोः नास्ति कुत्रापि भेदः। आर्य-द्राविडयोः यद् भेदः क्रियते तदलीकः। अस्माकं भारतं आसेतुहिमाचलमखण्डमस्ति।
अस्मिन्नङ्के धर्मायणे पूर्वप्रकाशिताः शक्ति-विमर्शपूर्णाः त्रय आलेखाः पुनःप्रकाशिताः। तेषु म.म. गोपीनाथ कविराज महोदयस्य ‘महाशक्ति श्री श्री माँʼ, कुमारी ममतायाः ‘शक्तिपूजा: मातृशक्ति का भावात्मक आधारʼ डा. भुवनेश्वर प्रसाद गुरुमैता महोदयस्य च “भारतीय साहित्य में शक्ति की अभिव्यंजना” महत्त्वपूर्णाः सन्ति।
वैशाखमासे भगवतः परशुरामस्य आविर्भावदिवसः अक्षयतृतीयायां समापतति। असमिन्नुपलक्ष्ये प्रस्तुतेऽङ्के गिरिधरदासनाम्ना प्रसिद्धस्य गोपालचन्द्रस्य भारतेन्दुहरिश्चन्द्रस्य पितुः परशुरामकथामृतम् लल्लूलालकृतात् प्रेमसागरात् भगवतः परशुरामस्य कथा अत्र सम्पादिते। पत्रिकायाः स्थायिस्तम्भेषु महावीरमन्दिरेण कोविड-महामरके कृतानि साहाय्यकर्माणि संकलितानि सन्ति।
श्रीसुलभ अग्निहोत्री महोदयस्य पुस्तकं पूर्वपीठिका इति श्री आनन्द कुमारेण समीक्षितम्। वैशाखमासस्य सर्वाणि व्रतपर्वाणि च विवृतानि। एवं सर्वथा पठनीयोऽयं धर्मायणस्य शक्ति-विमर्श-विशेषाङ्कः अद्य पूर्णिमायां तिथौ लोकार्पितः।
महावीर मन्दिर प्रकाशन
महावीर मन्दिर प्रकाशन
महावीर मन्दिर प्रकाशन
महावीर मन्दिर प्रकाशन
धर्मायण, अंक संख्या 114, परमहंस विष्णुपुरी विशेषांक