महावीर मन्दिरस्य मासिक-पत्रिकायाः रामानन्दाचार्य-विशेषाङ्कः प्रकाशितः
स्वामिनो रामानन्दाचार्यस्य जयन्ती
अद्य स्वामिनो रामानन्दाचार्यस्य जन्मदिनम्। परम्परया माघ मासे कृष्णपक्षे सप्तम्यां तिथौ रामानन्द-जयन्ती मन्यते अस्माभिः। ख्रीष्टाब्दस्य पञ्चदश-शताब्द्यां तेन समाजसुधारकेण जातिभेदं अविगणय्य समाजे सर्वेषां जनानां कृते धर्माधिकारः प्रस्तुतः।
स्वयं स जन्मना विप्रः कबीरदासं तन्तुवायं, रविदासं च चर्मकारं राम-मन्त्रे दीक्षितं कृतवान्। तस्य उद्घोष आसीत् यत्-
हरिं भजति यः कश्चित् तस्य स जायते हरिः। प्रभोः प्रपत्तिमार्गेषु जातिपृच्छा न जायते।। (धर्मायणपत्रिकायाः सम्पादकस्य भवनाथ झा महोदयस्य)
अनेन मूलमन्त्रेण तात्कालिकी कठिना स्थितिरपि सुगमा संजाता। सनातनधर्मश्च सुदृढः सञ्जातः। अद्यापि स्वामिनो रामानन्दाचार्यस्य पद्धतिः प्रासङ्गिकी वर्तते।
अस्मिन् उपलक्ष्ये अद्य रामानन्दाचार्यमधिकृत्य धर्मायण पत्रिकायाः विशेषांकस्य आन्तर्जालिकं संस्करणं प्रकाशितम्।
धर्मायणस्य प्रकाशनम्
पाटलिपुत्रस्थितस्य प्रसिद्धस्य महावीर मन्दिरस्य धार्मिकी, सांस्कृतिकी, राष्ट्रीय-चेतनायाश्च हिन्दीभाषात्मिका मासिकी पत्रिका सम्प्रति कोविड-19 इत्यस्य मरके केवलम् ऑनलाइन माध्यमेन प्रकाशिता भवति।
अद्य अस्याः शोधात्मकपत्रिकायाः रामानन्दाचार्य-विशेषाङ्कस्य लोकार्पणम् ऑनलाइन माध्यमेन संजातम्।
अस्मिन् वर्षे सर्वे अंकाः विशेषाङ्करूपेण एवं प्रकाशिताः भवन्ति- यथा वैष्णवोपासना-विशेषाङ्कः, वाल्मीकि-रामायण-विशेषाङ्कः, सूर्योपासना-विशेषाङ्क आदयः।
1990तमात् ख्रीष्टाब्दात् प्रारब्धायां अस्यां पत्रिकायां भारतीया उदात्त-चिन्तनपरम्परा, सामाजिक-समरसतायाश्च सिद्धान्तः, गौरवमयी परम्परा च प्रकाशिता भवति। दरभंगास्थितस्य संस्कृतविश्वविद्यालयस्य पूर्वकुलपतिद्वयोः डा. काशीनाथमिश्र-किशोरकुणालमहोदययोः, साहित्यवाचस्पतेः श्रीरंजन सूरिदेव महोदयस्य च सम्पादने प्रवृता इयं मासिकी पत्रिका अद्यावधि बिहारप्रान्ते भारतीयज्ञानपरम्परायाः प्रकाशिका वर्तते।
सम्प्रति पं. भवनाथ झा महोदयः अस्याः सम्पादकः, आचार्य किशोर कुणाल महोदयश्च प्रधान सम्पादकत्वेनालंकरोति।
80 पृष्ठात्मिकायामस्यां पत्रिकायां 12 शोधालेखाः सन्दर्भसङ्केतैः संवलिताः संकलिताः वर्तन्ते।
इति जालपृष्ठे निःशुल्करूपेण पठितुं शक्यते, डाउनलोड इति कृत्वा च वितरणं कर्तुं शक्यते।
अस्मिन् विशेषाङ्के स्वामिनं रामानन्दाचार्यमधिकृत्य सप्तसंख्यकाः आलेखाः सन्ति। एकस्यां कवितायां आचार्य किशोर कुणाल महोदयेन तं प्रति प्रणतिः प्रदर्शिता, तस्य सिद्धान्तानां च अद्यापि प्रासङ्गिकता च प्रदर्शिता।
अत्र डॉ. परेश सक्सेना महोदयेन मध्यकाले धर्मान्धानां यवनानां काले सनातनधर्मस्य रक्षार्थं स्वामिनो प्रयासः एकस्मिन् आलेखे स्फुटीकृतः।
डॉ. जितेन्द्रकुमार सिंह ‘संजय’ महादयेन सामाजिकपरिप्रेक्ष्ये स्वामिनो मूल्याङ्कनम् विस्तरेण प्रदर्शितम्।
श्री अम्बिकेशकुमारेण च प्रदर्शितम् यत् रामानन्दस्य मतं लोकोन्मुखमासीत्, तस्यां रामावत परम्परायां सर्वे दास इति शब्देन अभिधीयन्ते। परमद्य रामानन्द मते स्थिताः अनेके आत्मनो आचार्यान् घोषयन्तीति महान् खेदविषयः।
डा. सुदर्शन श्रीनिवास शाण्डिल्येन विशिष्टाद्वैतमीमांसा कृता। अस्मिन् अंके माघमासीयानां पर्वाणां नवरात्र-तुसारी-पूजनमित्यादि अधिकृत्य आलेखा अपि अत्र पठनीयाः सन्ति। एतेषां कृते पं. मार्कण्डेय शारदेयः, श्रीमती रञ्जू मिश्रा, सुश्री शिल्पी कुमारी च धन्यवादार्हाः सन्ति।
सर्वे आलेखाः सन्दर्भसहिताः शोधपरकाः अत्र दीयन्ते इति प्रबुद्धैरवगन्तव्यम्।महावीर मन्दिरस्य समाचाराः अपि संकलिताः अत्र पठनीयाः। इति शम्।
महावीर मन्दिर प्रकाशन
महावीर मन्दिर प्रकाशन
महावीर मन्दिर प्रकाशन
महावीर मन्दिर प्रकाशन
धर्मायण, अंक संख्या 114, परमहंस विष्णुपुरी विशेषांक